|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.21. अध्यायः 021
Mahabharata - Shanti Parva - Chapter Topics
युधिष्ठिरंप्रति देवस्थानस्य वचनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
देवस्थान उवाच। 12-21-0x(6074)(73414)
अत्रैवोदाहरन्तीममितिहासं पुरातनम्।
इन्द्रेण समये पृष्टो यदुवाच बृहस्पतिः॥ 12-21-1(73415)
संतोषो वै स्वर्गसमः संतोषः परमं सुखम्।
तुष्टेर्न किंचित्परतः सा सम्यक्प्रतितिष्ठति॥ 12-21-2(73416)
यदा संहरते कामान्कूर्मोऽङ्गानीव सर्वशः।
तदाऽऽत्मज्योतिरचिरात्स्वात्मन्येव प्रसीदति॥ 12-21-3(73417)
न विभेति यदा चायं यदा चास्मान्न बिभ्यति।
कामद्वेषौ च जयति तदाऽऽत्मानं च पश्यति॥ 12-21-4(73418)
यदाऽसौ सर्वभूतानां न द्रुह्यति न काङ्क्षति।
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा॥ 12-21-5(73419)
एवं कौन्तेय भूतानि तंतं धर्मं तथातथा।
तदाऽऽत्मना प्रपश्यन्ति तस्माद्वुध्यस्व भारत॥ 12-21-6(73420)
अन्ये साम प्रशंसन्ति व्यायाममपरे जनाः।
नैकं न चापरं केचिदुभयं च तथाऽपरे॥ 12-21-7(73421)
यज्ञमेके प्रशंसन्ति संन्यासमपरे जनाः।
`नैकं न चापरं केचिदुभयं च तथाऽपरे॥' 12-21-8(73422)
दानमेके प्रशंसन्ति केचिच्चैव प्रतिग्रहम्।
केचित्सर्वं परित्यज्य तूष्णीं ध्यायन्त आसते॥ 12-21-9(73423)
राज्यमेके प्रशंसन्ति प्रजानां परिपालनम्।
हत्वा छित्त्वा च भित्त्वा च केचिदेकान्तशीलिनः॥ 12-21-10(73424)
एतत्सर्वं समालोक्य बुधानामेव निश्चयः।
अद्रोहेणैव भूतानां यो धर्मः स सतां मतः॥ 12-21-11(73425)
अद्रोहः सत्यवचनं संविभागो दया दमः।
प्रजनं स्वेषु दारेषु मार्दवं हीरचापलम्॥ 12-21-12(73426)
एवं धर्मं प्रधानेष्टं मनुः स्वायंभुवोऽब्रवीत्।
तस्मादेतत्प्रयत्नेन कौन्तेय प्रतिपालय॥ 12-21-13(73427)
यो हि राज्ये स्थितः शश्वद्वशी तुल्यप्रियाप्रियः।
क्षत्रियो यज्ञशिष्टाशी राजा शास्त्रार्थतत्त्ववित्॥ 12-21-14(73428)
असाधुनिग्रहरतः साधूनां प्रग्रहे रतः।
धर्मवर्त्मनि संस्थाप्य प्रजा वर्तेत धर्मतः॥ 12-21-15(73429)
पुत्रसंक्रामितश्रीश्च वने वन्येन वर्तयेत्।
विधानमाश्रमाणां वै कुर्यात्कर्माण्यतन्द्रितः॥ 12-21-16(73430)
य एवं वर्तते राजन्स राजा धर्मनिश्चितः।
तस्यायं च परश्चैव लोकः स्यात्संफलोदयः॥ 12-21-17(73431)
निर्वाणं हि सुदुष्प्राप्यं बहुविघ्नं च मे मतम्॥ 12-21-18(73432)
एवं धर्ममनुक्रान्ताः सत्यदानतपः पराः।
आनृशंस्यगुणैर्युक्ताः कामक्रोधविवर्जिताः॥ 12-21-19(73433)
प्रजानां पालने युक्ता धर्ममुत्तममास्थिताः।
गोब्राह्मणार्थे युध्यन्तः प्राप्ता गतिमनुत्तमाम्॥ 12-21-20(73434)
एवं रुद्राः सवसवस्तथाऽऽदित्याः परंतप।
साध्या राजर्षिसङ्घाश्च धर्ममेतं समाश्रिताः।
अप्रमत्तास्ततः स्वर्गं प्राप्ताः पुण्यैः स्वकर्मभिः॥ ॥ 12-21-21(73435)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकविंशोऽध्यायः॥ 21॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-21-3 यदा प्रसीदति तदा तुष्टिः प्रतितिष्ठतीति पूर्वेण संबन्धः॥ 12-21-7 साम प्रीतिम्। व्यायामं यत्नम्॥ 12-21-12 प्रजने पुत्रोत्पादनम्॥ 12-21-15 प्रग्रहे संग्रहे॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|